< James 2 >

1 My brothers, have not the faith of our Lord Jesus Christ, the Lord of glory, with respect of persons.
हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।
2 For if there come to your assembly a man with a gold ring, in goodly apparel, and there come in also a poor man in vile raiment;
यतो युष्माकं सभायां स्वर्णाङ्गुरीयकयुक्ते भ्राजिष्णुपरिच्छदे पुरुषे प्रविष्टे मलिनवस्त्रे कस्मिंश्चिद् दरिद्रेऽपि प्रविष्टे
3 And you have respect to him that wears the gay clothing, and say to him, Sit you here in a good place; and say to the poor, Stand you there, or sit here under my footstool:
यूयं यदि तं भ्राजिष्णुपरिच्छदवसानं जनं निरीक्ष्य वदेत भवान् अत्रोत्तमस्थान उपविशत्विति किञ्च तं दरिद्रं यदि वदेत त्वम् अमुस्मिन् स्थाने तिष्ठ यद्वात्र मम पादपीठ उपविशेति,
4 Are you not then partial in yourselves, and are become judges of evil thoughts?
तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ?
5 Listen, my beloved brothers, Has not God chosen the poor of this world rich in faith, and heirs of the kingdom which he has promised to them that love him?
हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।
6 But you have despised the poor. Do not rich men oppress you, and draw you before the judgment seats?
धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?
7 Do not they blaspheme that worthy name by the which you are called?
युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते?
8 If you fulfill the royal law according to the scripture, You shall love your neighbor as yourself, you do well:
किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।
9 But if you have respect to persons, you commit sin, and are convinced of the law as transgressors.
यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे।
10 For whoever shall keep the whole law, and yet offend in one point, he is guilty of all.
यतो यः कश्चित् कृत्स्नां व्यवस्थां पालयति स यद्येकस्मिन् विधौ स्खलति तर्हि सर्व्वेषाम् अपराधी भवति।
11 For he that said, Do not commit adultery, said also, Do not kill. Now if you commit no adultery, yet if you kill, you are become a transgressor of the law.
यतो हेतोस्त्वं परदारान् मा गच्छेति यः कथितवान् स एव नरहत्यां मा कुर्य्या इत्यपि कथितवान् तस्मात् त्वं परदारान् न गत्वा यदि नरहत्यां करोषि तर्हि व्यवस्थालङ्घी भवसि।
12 So speak you, and so do, as they that shall be judged by the law of liberty.
मुक्ते र्व्यवस्थातो येषां विचारेण भवितव्यं तादृशा लोका इव यूयं कथां कथयत कर्म्म कुरुत च।
13 For he shall have judgment without mercy, that has showed no mercy; and mercy rejoices against judgment.
यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।
14 What does it profit, my brothers, though a man say he has faith, and have not works? can faith save him?
हे मम भ्रातरः, मम प्रत्ययोऽस्तीति यः कथयति तस्य कर्म्माणि यदि न विद्यन्त तर्हि तेन किं फलं? तेन प्रत्ययेन किं तस्य परित्राणं भवितुं शक्नोति?
15 If a brother or sister be naked, and destitute of daily food,
केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्,
16 And one of you say to them, Depart in peace, be you warmed and filled; notwithstanding you give them not those things which are needful to the body; what does it profit?
यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं?
17 Even so faith, if it has not works, is dead, being alone.
तद्वत् प्रत्ययो यदि कर्म्मभि र्युक्तो न भवेत् तर्ह्येकाकित्वात् मृत एवास्ते।
18 Yes, a man may say, You have faith, and I have works: show me your faith without your works, and I will show you my faith by my works.
किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।
19 You believe that there is one God; you do well: the devils also believe, and tremble.
एक ईश्वरो ऽस्तीति त्वं प्रत्येषि। भद्रं करोषि। भूता अपि तत् प्रतियन्ति कम्पन्ते च।
20 But will you know, O vain man, that faith without works is dead?
किन्तु हे निर्ब्बोधमानव, कर्म्महीनः प्रत्ययो मृत एवास्त्येतद् अवगन्तुं किम् इच्छसि?
21 Was not Abraham our father justified by works, when he had offered Isaac his son on the altar?
अस्माकं पूर्व्वपुरुषो य इब्राहीम् स्वपुत्रम् इस्हाकं यज्ञवेद्याम् उत्सृष्टवान् स किं कर्म्मभ्यो न सपुण्यीकृतः?
22 See you how faith worked with his works, and by works was faith made perfect?
प्रत्यये तस्य कर्म्मणां सहकारिणि जाते कर्म्मभिः प्रत्ययः सिद्धो ऽभवत् तत् किं पश्यसि?
23 And the scripture was fulfilled which says, Abraham believed God, and it was imputed to him for righteousness: and he was called the Friend of God.
इत्थञ्चेदं शास्त्रीयवचनं सफलम् अभवत्, इब्राहीम् परमेश्वरे विश्वसितवान् तच्च तस्य पुण्यायागण्यत स चेश्वरस्य मित्र इति नाम लब्धवान्।
24 You see then how that by works a man is justified, and not by faith only.
पश्यत मानवः कर्म्मभ्यः सपुण्यीक्रियते न चैकाकिना प्रत्ययेन।
25 Likewise also was not Rahab the harlot justified by works, when she had received the messengers, and had sent them out another way?
तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता?
26 For as the body without the spirit is dead, so faith without works is dead also.
अतएवात्महीनो देहो यथा मृतोऽस्ति तथैव कर्म्महीनः प्रत्ययोऽपि मृतोऽस्ति।

< James 2 >