< マタイの福音書 19 >

1 イエスはこの話を終えると、ガリラヤを去って、ヨルダンの向こうにあるユダヤ地方に行かれた。
अनन्तरम् एतासु कथासु समाप्तासु यीशु र्गालीलप्रदेशात् प्रस्थाय यर्दन्तीरस्थं यिहूदाप्रदेशं प्राप्तः।
2 すると、大ぜいの群衆がついて来たので、そこで彼らをおいやしになった。
तदा तत्पश्चात् जननिवहे गते स तत्र तान् निरामयान् अकरोत्।
3 パリサイ人たちがみもとにやって来て、イエスを試みて、こう言った。「何か理由があれば、妻を離別することは律法にかなっているでしょうか。」
तदनन्तरं फिरूशिनस्तत्समीपमागत्य पारीक्षितुं तं पप्रच्छुः, कस्मादपि कारणात् नरेण स्वजाया परित्याज्या न वा?
4 イエスは答えて言われた。「創造者は、初めから人を男と女に造って、
स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,
5 『それゆえ、人はその父と母を離れて、その妻と結ばれ、ふたりの者が一心同体になるのだ。』と言われたのです。それを、あなたがたは読んだことがないのですか。
मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?
6 それで、もはやふたりではなく、ひとりなのです。こういうわけで、人は、神が結び合わせたものを引き離してはなりません。」
अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।
7 彼らはイエスに言った。「では、モーセはなぜ、離婚状を渡して妻を離別せよ、と命じたのですか。」
तदानीं ते तं प्रत्यवदन्, तथात्वे त्याज्यपत्रं दत्त्वा स्वां स्वां जायां त्यक्तुं व्यवस्थां मूसाः कथं लिलेख?
8 イエスは彼らに言われた。「モーセは、あなたがたの心がかたくななので、その妻を離別することをあなたがたに許したのです。しかし、初めからそうだったのではありません。
ततः स कथितवान्, युष्माकं मनसां काठिन्याद् युष्मान् स्वां स्वां जायां त्यक्तुम् अन्वमन्यत किन्तु प्रथमाद् एषो विधिर्नासीत्।
9 まことに、あなたがたに告げます。だれでも、不貞のためでなくて、その妻を離別し、別の女を妻にする者は姦淫を犯すのです。」
अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।
10 弟子たちはイエスに言った。「もし妻に対する夫の立場がそんなものなら、結婚しないほうがましです。」
तदा तस्य शिष्यास्तं बभाषिरे, यदि स्वजायया साकं पुंस एतादृक् सम्बन्धो जायते, तर्हि विवहनमेव न भद्रं।
11 しかし、イエスは言われた。「そのことばは、だれでも受け入れることができるわけではありません。ただ、それが許されている者だけができるのです。
ततः स उक्तवान्, येभ्यस्तत्सामर्थ्यं आदायि, तान् विनान्यः कोपि मनुज एतन्मतं ग्रहीतुं न शक्नोति।
12 というのは、母の胎内から、そのように生まれついた独身者がいます。また、人から独身者にさせられた者もいます。また、天の御国のために、自分から独身者になった者もいるからです。それができる者はそれを受け入れなさい。」
कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु।
13 そのとき、イエスに手を置いて祈っていただくために、子どもたちが連れて来られた。ところが、弟子たちは彼らをしかった。
अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः।
14 しかし、イエスは言われた。「子どもたちを許してやりなさい。邪魔をしないでわたしのところに来させなさい。天の御国はこのような者たちの国なのです。」
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
15 そして、手を彼らの上に置いてから、そこを去って行かれた。
ततः स तेषां गात्रेषु हस्तं दत्वा तस्मात् स्थानात् प्रतस्थे।
16 すると、ひとりの人がイエスのもとに来て言った。「先生。永遠のいのちを得るためには、どんな良いことをしたらよいのでしょうか。」 (aiōnios g166)
अपरम् एक आगत्य तं पप्रच्छ, हे परमगुरो, अनन्तायुः प्राप्तुं मया किं किं सत्कर्म्म कर्त्तव्यं? (aiōnios g166)
17 イエスは彼に言われた。「なぜ、良いことについて、わたしに尋ねるのですか。良い方は、ひとりだけです。もし、いのちにはいりたいと思うなら、戒めを守りなさい。」
ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय।
18 彼は「どの戒めですか。」と言った。そこで、イエスは言われた。「殺してはならない。姦淫してはならない。盗んではならない。偽証をしてはならない。
तदा स पृष्टवान्, काः का आज्ञाः? ततो यीशुः कथितवान्, नरं मा हन्याः, परदारान् मा गच्छेः, मा चोरयेः, मृषासाक्ष्यं मा दद्याः,
19 父と母を敬え。あなたの隣人をあなた自身のように愛せよ。」
निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।
20 この青年はイエスに言った。「そのようなことはみな、守っております。何がまだ欠けているのでしょうか。」
स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते?
21 イエスは、彼に言われた。「もし、あなたが完全になりたいなら、帰って、あなたの持ち物を売り払って貧しい人たちに与えなさい。そうすれば、あなたは天に宝を積むことになります。そのうえで、わたしについて来なさい。」
ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।
22 ところが、青年はこのことばを聞くと、悲しんで去って行った。この人は多くの財産を持っていたからである。
एतां वाचं श्रुत्वा स युवा स्वीयबहुसम्पत्ते र्विषणः सन् चलितवान्।
23 それから、イエスは弟子たちに言われた。「まことに、あなたがたに告げます。金持ちが天の御国にはいるのはむずかしいことです。
तदा यीशुः स्वशिष्यान् अवदत्, धनिनां स्वर्गराज्यप्रवेशो महादुष्कर इति युष्मानहं तथ्यं वदामि।
24 まことに、あなたがたにもう一度、告げます。金持ちが神の国にはいるよりは、らくだが針の穴を通るほうがもっとやさしい。」
पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।
25 弟子たちは、これを聞くと、たいへん驚いて言った。「それでは、だれが救われることができるのでしょう。」
इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति?
26 イエスは彼らをじっと見て言われた。「それは人にはできないことです。しかし、神にはどんなことでもできます。」
तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।
27 そのとき、ペテロはイエスに答えて言った。「ご覧ください。私たちは、何もかも捨てて、あなたに従ってまいりました。私たちは何がいただけるでしょうか。」
तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो ऽभवाम; वयं किं प्राप्स्यामः?
28 そこで、イエスは彼らに言われた。「まことに、あなたがたに告げます。世が改まって人の子がその栄光の座に着く時、わたしに従って来たあなたがたも十二の座に着いて、イスラエルの十二の部族をさばくのです。
ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।
29 また、わたしの名のために、家、兄弟、姉妹、父、母、子、あるいは畑を捨てた者はすべて、その幾倍もを受け、また永遠のいのちを受け継ぎます。 (aiōnios g166)
अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति। (aiōnios g166)
30 ただ、先の者があとになり、あとの者が先になることが多いのです。
किन्तु अग्रीया अनेके जनाः पश्चात्, पश्चातीयाश्चानेके लोका अग्रे भविष्यन्ति।

< マタイの福音書 19 >